विवाहमुहूर्तविचारः

Author
प्रो.हंसधर झा
आचार्य, ज्‍योतिष विभाग, के.सं.वि.वि. भोपाल परिसर, भोपाल

वेदस्य षट्ष्वङ्गेषु ज्योतिषशास्त्रं तथा तत्रापि स्कन्धत्रयात्मके ज्योतिषे संहिताभागः अत्यन्तं महत्त्वपूर्णः इति जानन्ति एव भवन्तः। तत्र संहिताभागेऽपि मुहूर्त्तविचारः महत्त्वपूर्णः। मुहूर्त्तशास्त्रे निखिलानां मानवीयसंस्काराणां मुहूर्त्तानां विवेचनं दरीदृश्यते एव मानवैः क्रियमाणानाम् अन्येषामपि विविधानां कृषिकर्मसम्बन्धिनां भैषज्यादिजन्यानां कर्मणां मुहूर्त्ताः विवेचिताः प्राक्तनैः ऋषिप्रवरैः। तत्र षोडशसंस्कारेषु विवाहसंस्कारः अन्यतमः संस्कारः। संस्कारस्यास्य प्राधान्यादेव प्रायः निखिलेष्वपि मुहूर्त्तग्रन्थेषु विवाहसंस्कारस्य मुहूर्तादिकं स्वतन्त्ररूपेण एकस्मिन्नध्याये समुपवर्णितं प्राक्तनैः ।

तदत्र आचार्यश्री रामाचार्येणापि मुहूर्तचिन्तामणौ विवाहप्रकारणमिति नाम्ना पृथगेव प्रकरणं कल्पितम्। विवाहो हि गृहस्थाश्रमस्य प्रथमं सोपानम्। विवाहानन्तरमेव ब्रह्मचारी गृहस्थः कथ्यते। गृहस्थाश्रमश्च निखिलेष्वपि आश्रमेषु मुख्यभूतः। भगवान् मनुः कथयति- 

यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्।

गृहस्थेनैव धार्यन्ते तस्मात् ज्येष्ठाश्रमो गृही। इति।

वसिष्ठेनापि गृहस्थाश्रमस्य महत्त्वं समुपवर्णयन् उल्लिखति –

                        यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।

                        एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः।।

एवं महत्त्वपूर्णस्यास्य आश्रमस्य प्रारम्भः विवाह एव । स च महत्त्वपूर्णः विवाहसंस्कारः यथोचिते काले कृते सति जीवनं सुखशान्तिमयं भवतीति ऋषीणां चिन्तनम्। अतः शास्त्रेऽस्मिन् मुहूर्ताख्ये भागे तैः विवाहमुहूर्तविषयं विशदं विवेचनं कृतमस्ति। श्रीरामदैवज्ञेन विवाहस्य मुहूर्त्तमाहात्म्यं विवेचयता स्पष्टं लिखितं मुहूर्तचिन्तामणौ विवाहप्रकरणे आदावेव –

            भार्या त्रिवर्गकरणं शुभशीलयुक्ता शीलं शुभं भवति लग्नवशेन तस्याः।

            तस्माद्विवाहसमयः परिचिन्त्यते हि तन्निघ्नतामुपगताः सुतशीलधर्माः।।

(वि.प्र.श्लो – 1)

स्पष्टं यत् शुभवेलायां सम्पादितो विवाहः सुतधनसुखादि जनकः भवत्येव। स्त्रियाः शीलस्वभावादिकं अपि भवति प्रभावितं शुभमुहूर्त्तेन । तत्र रामाचार्यः कथयति –

मिथुनकुम्भमृगालिवृषाजगे मिथुनगेऽपि रवौ  त्रिलवे शुचेः।

अलिमृगाजगते करपीडनं भवति कार्त्तिकपौषमधुष्वपि ।।13।।

अर्थात् मिथुन-कुम्भ-मकर-वृश्चिक-वृष-मेषराशिगते सूर्ये विवाहः शुभः भवति। पुनश्च विवाहविहितनक्षत्राणि प्रतिपादयन् लिखति आचार्यः –

            रोहिण्युत्तररेवत्यो स्वातीमूलं मृगो मघा।

            अनुराधा च हस्तश्च विवाहे मंगलप्रदाः ।।

अर्थात् एतानि एकादशनक्षत्राणि विवाहे प्रशस्तानि सन्ति। एवं तिथ्यादीनां विचारस्तु करणीय व तत्र लतादिदशदोषाणामपि विचारः विधीयते इति विशेषः। ते च दोषाः सन्ति – लतादोषः, पातदोषः, युतिदोषः, वेधदोषः, जामित्रदोषः, वाणपञ्चकदोषः, एकार्गलदोषः, उपग्रहदोषः, क्रान्तिसाम्यदोषः, दग्धदोषश्च। अर्थात् तिथिनक्षत्रमासादीनां शुद्धत्वेपि एते दशदोषाः विचारणीयाः एव । तत्रापि दशदोषेषु युति-वेध-जामित्र-बाणपञ्चक-क्रान्तिसाम्य-दग्धेति षड्दोषा अत्यन्तं महत्त्वपूर्णाः मन्यन्ते। एतदतिरिक्तानां चतुर्णां दोषाणाम् अनेके परिहारास्तु सन्त्येव, तेषां चतूर्णां दोषाणां दोषाः अपि अत्यल्पत्वेन परिगण्यन्ते। एवमत्र विवाहे एतदतिरिक्तं लग्नभङ्गविचार अपि आवश्यकः भवति। पूर्वोक्ततिथिनक्षत्राद्यनुसारं तथा च लतादिदशदोषानुसारं विवाहमुहूर्त्तस्य अनुकूले सत्यपि यदि लग्नभङ्गः भवति तदा विवाहः न विधेयः इति शास्त्रकाराणां कथनम्। यथा रामाचार्यः मुहूर्तचिन्तामणौ लिखति –

व्यये शनिः खेऽवनिजस्तृतीये भृगुस्तनौ चन्द्रखला न शस्ता।

लग्नेट् कविर्ग्लौश्च रिपौ भृतौ ग्लौर्लग्नेट् शुभाराश्च मदे च सर्वे।।

अर्थात् विवाहलग्नात् द्वादशे शनिः, दशमे मंगलः, तृतीये शुक्रः तथा लग्ने यदि सपापः चन्द्रः भवति तदा विवाहः शुकरः न भवति। लग्नेशश्चन्द्रः, शुक्रश्च षष्ठस्थाने नैव शुभः। चन्द्रः लग्नेशः, तथा कश्चिदपि शुभग्रहः तथा मंगलः अष्टमस्थाने न शोभनः। लग्नात् सप्तमे सर्वे ग्रहाः अशुभप्रदाः। अतः स्पष्टं यत् अयं लग्नभङ्गयोगः अपि अवश्यमेव विचारणीयः। एवं च विवाहलग्ने ग्रहाणां शुभस्थानानि अपि विचारणीयानि। अर्थात् विवाहकाले यदि निर्धारितग्रहः यदि निर्धारितस्थानेषु भवन्ति तदा विवाहः शुभः भवति। यथोक्तं रामाचार्येण –

त्र्ययाष्टषट्सु रविकेतुतयोऽर्कपुत्राः,

त्र्ययारिगः क्षितिसुतौ, द्विगुणायगोऽब्जः।

सप्तव्ययाष्टरहितौ ज्ञगुरुसितोऽष्ट-

त्रिद्यूनषड्व्ययगृहान् परिहृत्य शस्तः। इति।

अर्थात् रविकेतुराहुशनयः त्रृतीयैकादशाष्टमनवमस्थानेषु शुभाः भवन्ति। मङ्गलः तृतीयैकादशषष्ठस्थानेषु शुभः भवति। चन्द्रः तृतीयैकादशदशभवनेषु शुभः भवति । बुधगुरू सप्तमद्वादशाष्टमस्थानातिरिक्तेषु स्थानेषु शुभौ भवतः। तथा शुक्रः सप्तमषष्ठद्वादशस्थानातिरिक्तेषु स्थानेषु शुभः भवति । तदनुसारं विवाहलग्ने यदि पञ्चग्रहाः अनुकूलाः भवन्ति, तदैव पञ्चेष्टप्राप्तिः इति प्राचां मतम्। अर्थात् तत्र कृतः विवाहः शोभनः भवति। एतदतिरिक्तं भद्रा वैधृत्यादीनामपि विवाहे त्यागः कर्त्तव्यः । बहवो विद्वांसस्तु रिक्ताम् अमावाश्यां तता मासान्तदोषाम् अपि त्यजन्ति विवाहे । पुनश्च विवाहे रविशुद्धिः गुरुशुद्धिः चन्द्रशुद्धिश्च विचारणीयाः । एते एव विचाराः त्रिबलशुद्धिरिति नाम्नापि गीयते । एवं लग्नशुद्धय़ादिकं परिचिन्त्य विवाहे ग्रहमेलापकः नक्षत्रमेलापकः विचार्यः। यथा ग्रहमेलापकस्य प्रमुखं वचनमस्ति –

            लग्ने व्यये च पाताले यामित्रे चाष्टमे कुजे ।

            कन्या भर्तृविनाशाय भर्ता कन्याविनाशकृत् ।।

अथच नक्षत्रमेलापकविचारः एव अष्टकुटविचारः। तत्र अष्टकूटानि कथयति रामाचार्यः - वर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रिकम्।

            गणमैत्रं भकूटं च नाडी चैते गुणाधिकाः ।।

अर्थात् वर्ण-वश्य-तारा-योनि-ग्रहमैत्री-गणमैत्री-भकूट-नाडीति अष्टकूटानां क्रमशः एकाधिकक्रमेण गुणाः भवन्ति। ते च आहत्य षट्त्रिंशत भवन्ति। तत्र वरकन्ययोः न्यूनातिन्यूनं षोडशगुणाः अपेक्ष्यन्ते। तदधिके अधिकाधिकं प्रशस्ताः भवन्ति। यथा कथयन्ति गुरुचरणाः –

            गुणैः षोडशभिर्निन्द्यो मध्यमा विंशतिस्तथा ।

            श्रेष्ठस्त्रिंशद् गुणं यावत् परस्तूत्तरोत्तरम्।।

एवम् अष्टौ मेलापकान् विचिन्त्य शुभमुहूर्ते लतादिदोषरहिते लग्नशुद्धौ च विवाहसंस्कारो विधेयः। एवं कृते सति दाम्पत्यजीवनं सुखसमृद्धिमयं भवतीति दिक् ।।

 


3 Comments

Amanda Martines 5 days ago

Exercitation photo booth stumptown tote bag Banksy, elit small batch freegan sed. Craft beer elit seitan exercitation, photo booth et 8-bit kale chips proident chillwave deep v laborum. Aliquip veniam delectus, Marfa eiusmod Pinterest in do umami readymade swag. Selfies iPhone Kickstarter, drinking vinegar jean.

Reply

Baltej Singh 5 days ago

Drinking vinegar stumptown yr pop-up artisan sunt. Deep v cliche lomo biodiesel Neutra selfies. Shorts fixie consequat flexitarian four loko tempor duis single-origin coffee. Banksy, elit small.

Reply

Marie Johnson 5 days ago

Kickstarter seitan retro. Drinking vinegar stumptown yr pop-up artisan sunt. Deep v cliche lomo biodiesel Neutra selfies. Shorts fixie consequat flexitarian four loko tempor duis single-origin coffee. Banksy, elit small.

Reply

Leave a Reply