ज्योतिषशास्त्रदृष्ट्या व्यक्तित्वनिरूपणम्
अद्यत्वे यत्प्रत्यक्षप्रमाणं तस्यैव महत्त्वमुरीक्रियते विद्वद्भिः। चक्ष्वादिरिन्द्रियैः साक्षात्कारिप्रमाकरणं प्रत्यक्षम्। प्रमाकरणं प्रमाणमिति या नाम यथार्थानुभवः यथार्थानां संशयविपर्यय तर्कज्ञानानां निरासः। अनुभव इति स्मृतेर्निरासः। ज्ञातविषयं ज्ञानं स्मृतिः। अनुभवो नाम स्मृतिव्यतिरिक्तं ज्ञानम्। स्मृतिव्यतिरिक्तं ज्ञानं वेदेभ्य एव प्राप्यते, वेदास्तु साक्षात् सर्वप्रमाणज्ञाननिधित्वेनाङ्गीक्रियते। वेदानां साक्षात्कृतदर्शनेन शिक्षा-कल्प-व्याकरण-निरुक्त-छन्द-ज्योतिषशास्त्राणामङ्गानां महत्त्वं स्वीक्रियते। एतेषां महत्त्वं निरीक्ष्यैव पाणिनीयशिक्षायां प्रतिपाद्यते यत् – छन्दः पादौ तु वेदस्य, हस्तो कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुर्निरूक्तं श्रोत्रमुच्यते ।। शिक्षा घ्राणं तु वेदस्य, मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव, ब्रह्मलोके महीयते ।। (पा.शिक्षा. 14 – 42)
कालविधानशास्त्रत्त्वेन एतेषु ज्योतिषशास्त्रस्य महत्त्वं सर्वोपरि स्वीक्रियते। तद्यथा – वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं, यो ज्योतिषं वेद वेदम् ।। (वेदाङ्गज्योतिषम् )
शुभमुहूर्त्तमाश्रित्यैव विशिष्टोऽध्वरं प्रवर्ततेति ज्योतिषम्। शुभमुहूर्त्तकलनाय ज्योतिषादयोऽभूत्। अत्र सूर्यचन्द्रसौर्यग्रहाणां नक्षत्राणां च गतिर्निरीक्ष्यते परीक्ष्यते विविच्यते च। वस्तुतः ज्योतिषशास्त्रं हि स्कन्धत्रयात्मकं समन्वितमस्ति। तथैव वराहमिहिराचार्यः लिखति यत् –
सिद्धान्त-संहिता-होरारूपं स्कन्धत्रयात्मकम् ।
तत्कार्त्स्न्योपनस्य नाममुनिभिः संकीर्त्त्त्यते संहिता ।।
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ ।
होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ।। (बृहत्संहिता प्र. अ. 1. श्लो - )
यथान्धकारे विद्यमानानां पदार्थानां बोधो दीपेन कर्तुं शक्यते, तथैव होराशास्त्रेण न तु इह जन्मनः अपितु जन्मजन्मान्तरेषु कृतानां शुभाशुभकर्मणां शुभाशुभप्रतिफलं जीवनेऽस्मिन् प्रकाशयति। अतः कल्याणवर्मा सारावलीग्रन्थस्य द्वितीयाध्यायस्य प्रथमश्लोके निगदति यत् - विधात्रा लिखिता याऽसौललाटेऽक्षरमालिका ।
दैवज्ञस्तां पठेद्व्यक्तं होरार्निमलचक्षुषा ।। (सारावली, द्वि.अ. श्लो -1) अस्य ज्योतिषशास्त्रस्य ज्ञानं प्रचक्षति सः दैवज्ञरिति कथ्यते। तेन दैवज्ञेन होराशास्त्रेण सर्वविधसमस्यानां समाधानम् आविष्कृतम्। होराशास्त्रस्य व्युत्पतिः अहोरात्रशब्दस्य आद्यकारान्तत्रकारयोः लोपेन सिद्धयति। दिवसरात्र्योः समयरेव अहोरात्रमिति कथ्यते। अस्य होराशास्त्रस्य सर्वत्रावश्यकता वर्तते एव। यथा –अर्थाजने सहायः पुरुषाणामापदर्णवे पोतः। यात्रासमये मन्त्री जातकमपहाय नास्त्यपरः।। (सारावली, प्र.अ. श्लो -5)तमसावृत्ते समन्ताज्जलभूते भूतले ततोऽस्मात्। उदिता भगवान् भानुः प्रकाशन् स्वप्रकाशेन ।। व्यसृजज्जगत्समस्तं ग्रहर्क्षसंघातकल्पितावगतम्। द्वादशभेदैश्चित्रः कालः संप्रस्तुतस्तस्मात् ।। (सारावली, प्र.अ. श्लो -1,2)
तथैव द्वादशराशीनां संकल्पना विद्यते – मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिकः। धन्वी मकरः कुम्भो मीनस्त्विति राशिनामानि ।। (सारावली, प्र.अ. श्लो - 3) अश्विनी-भरणी-कृतिका पादमेकं मेषेत्यस्य स्वरूपं दृश्यते। तथैव सप्तविंशतिः नक्षत्रानुगुणं द्वादशराशीनां कल्पना विहिता वर्तते। एतेषां राशीनां स्वरूपाणि अपि वर्णितानि सन्ति यथा –कुम्भः कुम्भधरो नरोऽथ मिथुनं वीणागदाभृन्नरौ मीनो मीनयुगं धनुश्च सधनुः पश्चाच्छरीरो हयः ।एणास्यो मकरः प्रदीपसहिता कन्या च नौसंस्थिता शेषो राशिगणः स्वनामसदृशो धत्ते तुलाभृत्तुलाम् ।। (सारावली, प्र.अ. श्लो -4)
कालपुरुषस्यावयवानि अपि वर्णितानि सन्ति। यथा –शीर्षस्य बाहुहृदयं जठरं कटिबस्तिमेहनोरूयुग्मम्। जानू जंघे चरणौ कालस्यांगानि राशयोऽजाद्याः।। (सारावली, प्र.अ. श्लो -5)
भावानां स्वरूपं प्रकाशयति –द्वादशमण्डलभगणं तस्यार्धे सिंहतो रविर्नाथः ।कर्कटकात्प्रतिलोमं शशी तथान्येऽपि तत्स्थानात् ।। (सारावली, प्र.अ. श्लो -9)
तथैव तनु-धन-सहज-सौख्य-सन्तति-शत्रु-जाया-आयु-भाग्य-कर्म-आय-व्ययमिति द्वादशभावाः कथिताः। चर-स्थिर-द्विस्वभावराशीनां व्यक्तित्वं विवेचयामः। तद्यथा – मेषकर्कतुलामकरराशयः चरसंज्ञकाः, वृषसिंहवृश्चिककुम्भराशयः स्थिरसंज्ञकाः, मिथुनकन्याधनुमीनराशयः द्विस्वभावसंज्ञकाश्च भवन्ति।
पणफरापोक्लिमसंज्ञाः – केन्द्रात्परं पणफरमापोक्लिमं संज्ञितं तयो परतः। बातयुवस्थविश्वे क्रमेण फलदा ग्रहास्तेषु ।। (सारावली, प्र.अ. श्लो -32)
द्वितीयपंचमाष्टमैकादशभावानां पणफरसंज्ञा भवति। तृतीयषष्ठनवमद्वादशभावानां आपोक्लिमसंज्ञा भवति। केन्द्रस्थाः ग्रहाः बाल्यावस्थायां, पणफरस्थाः ग्रहाः यौवनावस्थायाम्, आपोक्लिमस्थाश्च ग्रहाः वृद्धावस्थायां शुभफलप्रदाः भवन्ति। राजा रविः शशधरश्च बुधः कुमारः। सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ
भृत्यस्तथा रविजः सबला नराणां, कुर्वन्ति जन्मसमये निजमेव सत्त्वम्।।
तथैव रविज-भौम-सूर्याश्च पापग्रहाः एवं गुरु-बुध-शुक्राश्च शुभग्रहाः सन्ति। पूर्णचन्द्रः शुभः, क्षीणचन्द्रः अशुभश्च स्यात्। बुधः शुभग्रहेण साकं शुभः स्यात् एवं पापग्रहेण साकम् अशुभः स्यात्। अतः एतेषां नवग्रहाणां स्वरूपं विविच्यते –
सूर्यः – स्वल्पाकुंचितमूर्धजः, सुन्दरबुद्धिः, गम्भीरवाणी, नात्युच्चः, मधुतुल्यरक्तनेत्रं, शूरः, प्रतापी, स्थिरः, रक्तश्यामतनुः, निगूढचरणः, पित्तस्वभावः, अस्थिवान्, गम्भीरश्चतुरस्रकः, पृथुकरः, कौस्तुभवासा च रवेः स्वरूपं भवति। (सारावली, चतु.अ. श्लो -21)
चन्द्रः – शान्तः, शोभायमाननेत्रं, मधुरवाग्गौरः, कृशाङ्गः, युवा उन्नतः, सूक्ष्मनिकुचिंतः, प्राज्ञः, मृदुस्वभावः, सात्त्विकः, वातकफात्मकः, प्रियसखः, रक्ते बलम्, घृणी, वृद्धस्त्रीषु रतः, अत्यन्तसुन्दरः, शुभ्राम्बरशालिनाश्च चन्द्रमसः स्वरूपं भवति। (सारावली, चतु.अ. श्लो -22)
भौमः – ह्रस्वः, पिंगललोचनः, दृढवपुः, प्रदीप्तकान्तियुक्तः, चंचलः, मंजावान्, रक्तवस्त्रं, चतुरः, शूरः, सिद्धवचनं, ह्रस्वाकुंचितदीप्तकेशः, तरुणः, पित्तात्मकः, तामसः, पराक्रमी, साहसी, घातकुशलः, संरक्तगौरश्च कुजस्य स्वरूपं भवति। (सारावली, चतु.अ. श्लो -23)
बुधः – रक्तविशालनेत्रं, मधुरवाणी, दूर्वादलश्यामतनुः, त्वक्मध्ये बलं, रजोगुणी, स्फुटवचः, त्रिदोषात्मकः (कफ-पित्त-वात) प्रसन्नात्मा, मध्यमस्वरूपं, चतुरः, वृत्तसदृशाऽकृतिः, शिरभिः सम्पन्नः, वेषवचनैः आनन्ददायकः, पालाशवासा च बुधस्य स्वरूपं भवति। (तत्रैव -24)
गुरुः – ईषत्पिंगललोचनः, श्रुतिधरः, सिंहाच्छनादः, स्थिरः, सत्त्वगुणसम्पन्नः, सुविशुद्धकांचनवपुः, भेदः, चर्वीप्रधानः, तनुश्च गुरोः स्वरूपं भवति। (तत्रैव 25)
शुक्रः – चारुः, मनोहरस्वरूपं, दीर्घभुजः, विशालवक्षस्थलं, शुक्राधिकः, कान्तियुक्तः, कृष्णाकुचिंतकेशः, दूर्वादलश्यामलः, कामी, वातकफप्रकृतिः, अत्यन्तसौभाग्ययुक्तः, चित्राम्बरः, राजसः, लीलावान्, बुद्धिमान्, विशालनेत्रं, स्थूलांशोदरश्च शुक्रस्य स्वरूपं भवति। (तत्रैव 26)
शनिः – निम्नकपिलाक्षः, कृशतनुः, दीर्घः, अलसः, कृष्णवर्णः, पवनात्मकः, पिशुनः, निर्दयी, मूर्खः, स्थूलनशदन्तसमन्वितः, अतिमलिनः, चेष्टाहीनः, अपवित्रः, तामसी, रौद्रः, क्रोधी, जरापरिणतः, कृष्णाम्बरश्च शनेः स्वरूपं वर्तते। (तत्रैव 27)
एतेषु ग्रहेषु गुणाधिक्येनापि भेदाः वर्तन्ते। यथा – सात्त्विकाः सूर्यचन्द्रगुरवः, राजसिकौ शुक्रबुधौ, तामसिकौ शनिभौमौ च भवतः। एवमेव ग्रहाणामाधारेण व्यक्तेः स्वरूपं तस्य सम्पूर्णान्तिरिकबाह्यपक्षाणां च विवेचनं क्रियते। तथैव यस्य जन्मचक्रे भौमः बलयुक्तः स्यात्तदा सः जातकः अग्नितत्त्वप्रधानः, यदि बुधः बलयुक्तः स्यात्तदा सः भूततत्त्वप्रधानः, यदि गुरुः बलयुक्तः स्यात्तदा सः आकाशतत्त्वप्रधानः, यदि शुक्रः बलयुक्तः स्यात्तदा सः जलतत्त्वप्रधानः, यदि शनिः बलयुक्तः स्यात्तदा सः वायुतत्त्वप्रधानश्च भवति। सूर्यस्य प्राधान्येन अग्नितत्त्वप्रधानः, चन्द्रस्य प्राबल्येन जलतत्त्वप्रधानश्च भवति।
अग्नितत्त्वप्रधानः जातकः बुभुक्षितः, बहुभुक्, चंचलः, शूरः, दुर्बलः, गौरवर्णः, विद्वान्, सम्मानितः, तीक्ष्णश्च भवति। भूमितत्त्वप्रधानः जातकः भोगयुक्तः, अतिबली, सुखी, पक्षकर्पूरसुरभिः क्षान्तः, सिंहसमानगम्भीरस्वरवान् च भवति। आकाशप्रकृतियुक्तः जातकः नीतिज्ञः, ज्ञानी, विवृतप्रकृतिः, लम्बायमानं, शब्दार्थवेत्ता, तीक्ष्णबुद्धियुक्तश्च भवति। जलतत्त्वप्रधानः पुरुषः कान्तिमान्, मृदुभाषी, विद्वान्, राजा, अनेकसुहृद्भिः युक्तः, भारवाहकः, वातप्रकृतिकः, क्रोधी, दानी, गौरवर्णः, दुर्बलः, भ्रमणप्रियः, अरिमर्दकश्च भवति।
ईश्वरस्य त्रिगुणात्मिका शक्तिप्रकृतिरिति उच्यते। ततो गुणानुसारेण मनुष्याः अपि चतुर्धा विभज्यन्ते। यथा – उत्तमः, मध्यमः, उदासीनः, अधमश्चेति। उत्तममध्यमाधमपुरुषाणां गुणविवेचनक्रमे बृहत्पराशरहोराशास्त्रस्य त्रिगुणफलाध्याये निगदति आचार्यः –
शान्तो दान्तःशुचिः शान्तः सरलः सत्यवागपि। अलुब्धस्तापसः सत्त्वप्राधान्ये जायते नरः।। तेजस्वी धृतिमान् दक्षः समरेत्वपराङ्मुखः। सतां शरण्यस्तु जनः प्राधान्ये रजसो भवेत्।। लुब्धोमिथ्याभिभाषी चलसो मूर्खोऽधमस्तथा। सेनासु निपुणो जातः प्राधान्ये तमसो भवेत्।। (बृ.पारा.हो.श्लो – 5-7)एवमेव गीतायामपि एतेषां गुणानां विषये उल्लेखो प्राप्यते। तथैव – सत्वात्संजाते ज्ञानं रजसो लोभ एव च प्रमादमोहौ तमसो भवतोऽज्ञानेव च।। (श्लो 14-17)
ज्योतिषशास्त्रे व्यक्तित्वनिर्धारणक्रमे जन्माङ्गचक्रस्थानां द्वादशभावानामाधारः स्वीक्रियते। यथा – सप्तमलग्ने जातो विषमांगः शीलवर्जितश्चपलः। उपचितहीनद्रविणः सुखहृद्देहानुसारी स्यात्।। कफवातिकः कलिरूचिको दीर्घमुखशरीरधर्ममतिवेत्ता। बहुदुःखभाक्सुमेधाः परावमर्दी सुधारूकृष्णाक्षः।। अतिथिद्विजदेवरतिः क्रतुक्रियावन्गुरूषु भवतः। पूज्यः पितान्यभाजां जातः सत्यश्च मृदुशुक्लः।। भ्रातृप्रियोऽर्थमुख्यः शुचिश्च पापोपचारबन्धुश्च । कान्तः कुत्सितवृत्तो धर्मव्यवसायनीचमतिः।। (श्लो 26 – 29) एवं प्रकारेण द्वादशलग्नानुसारेण जातकस्य सम्पूर्णव्यक्तित्वस्य दिग्दर्शनं भवति। तथैव द्वादशगृहानुसारेणाऽपि व्यक्तित्वस्य अनुशीलनं कर्तुं शक्यते।
संदर्भ सूची / References
सन्दर्भग्रन्थाः –
- बृहत्पाराशरहोराशास्त्रम्
- सारावली
- लघुपाराशरी
- संस्कृतसाहित्यस्येतिहासः
- शिक्षामनोविज्ञानम्
- प्रगतशिक्षामनोविज्ञानम्
- तर्कसंग्रहः
Amanda Martines 5 days ago
Exercitation photo booth stumptown tote bag Banksy, elit small batch freegan sed. Craft beer elit seitan exercitation, photo booth et 8-bit kale chips proident chillwave deep v laborum. Aliquip veniam delectus, Marfa eiusmod Pinterest in do umami readymade swag. Selfies iPhone Kickstarter, drinking vinegar jean.
ReplyBaltej Singh 5 days ago
Drinking vinegar stumptown yr pop-up artisan sunt. Deep v cliche lomo biodiesel Neutra selfies. Shorts fixie consequat flexitarian four loko tempor duis single-origin coffee. Banksy, elit small.
ReplyMarie Johnson 5 days ago
Kickstarter seitan retro. Drinking vinegar stumptown yr pop-up artisan sunt. Deep v cliche lomo biodiesel Neutra selfies. Shorts fixie consequat flexitarian four loko tempor duis single-origin coffee. Banksy, elit small.
Reply