श्रीमद्भगवद्गीतायां ज्योतिषतत्त्वानि
गगनं गगनाकारं सागरः सागरोपमः इव मानवमात्र संस्कृतेः सभ्यतायाश्च शिखरे प्रतिष्ठापकाः वेदाः विश्वसाहित्यस्य अप्रतिमनिधयः सन्ति। भारतीयमनीषिणः वेदान् अपौरुषेयान् उक्त्वा अनादि नित्यं च मन्यत्ते। वेदाः वर्तमानसभ्यसंसारस्य ज्ञानबोधकाः सर्वप्रथमज्ञानराशयः सन्ति। वेदपुरुषस्य अङ्गेषु ज्योतिषशास्त्रं नेत्रस्थानीयं मन्यते। प्रसिद्धखगोलग्रहगणितज्ञः गणकचक्रचूडामणिः श्रीभास्कराचार्यः (1114) स्वप्रसिद्धग्रन्थे सिद्धान्तशिरोमणिः इत्यस्य प्रारम्भे लिखति –
वेदचक्षुः किलेदं स्मृतं ज्योतिषं, मुख्यता चाङ्गमध्येऽस्य तेनोच्यते ।
अर्थात् ज्योतिषशास्त्रं वेदस्य चक्षुः इति कारणात् वेदस्य षड्सु अङ्गेषु प्रमुखम्। नेत्रस्थानीयकारणात् ज्योतिषशास्त्रं प्रकाशशास्त्रमपि कथ्यते। इदं शास्त्रं व्यक्तेः भूतं भविष्यं वर्तमानञ्च प्रकाशयति, ग्रहाणां माध्यमेन कर्मफलञ्च द्योतयति ।
प्रस्तुतपत्रे गीतायां ज्योतिषतत्त्वानि इति वर्णितानि – ज्योतिषशास्त्रस्य मुख्याधाराः प्रमुखतया सूर्यः चन्द्रः अन्यान्य ग्रहनक्षत्रादयः सन्ति – श्रीमद्भगवद्गीतायां भगवताकृष्णेनोक्तम् –
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ।। (गीता 10/21)
अहं अदितिपुत्रेषु विष्णुः प्रकाशमानवस्तुषु च सूर्यः मरुद्गणानां च तेजः, नक्षत्राणां अधिपतिः चन्द्रमा अस्मि। अनेन प्रकारेण ज्योतिषशास्त्रस्याधाराः सूर्यचन्द्रौ तथा अन्ये ग्रहाः सन्ति येन कालज्ञानं मनुष्यस्य शुभाशुभस्य च ज्ञानं भवति।
गीतायां कालः – ज्योतिषशास्त्रे कालस्य प्रामुख्यं वर्तते, हेमाद्रिः कूर्मपुराणस्य एकं वचनं उदाहरति – अनादिरेषः भगवान्कालोऽनन्तोऽजरोमरः। अर्थात् तस्य दृष्ट्या कालः परमेश्वरूपः अतः सः अनादि अनन्तः अजरः अमरश्च। अनेनैव प्रकारेण –कालेनैव च सृज्यन्ते स एव ग्रसते पुनः ।तस्यात्कालात्मकं विश्वं स एव परमेश्वरः ।। (पंचाग का सामान्यपरिचय पृ.2) (विकासशर्मा, रा.सं.वि.वि.) अर्थात् कालः एव मनुष्यस्य सुःखदुःख-जीवन-मरण-उत्थान-पतनादेः नियामकः भवन्ति। कालेन मनुष्यः उद्भवति तस्मिन्नेव तस्य लयमपि भवति। कालः सृजति भूतानि कालः संहरते प्रजाः । (ज्योतिषतत्त्व पृ.20) ज्योतिषशास्त्रस्य प्रणेतारः एव न अपितु वेदपुराण उपनिषद् कालः एव परमेश्वर इति स्वीकुर्वन्ति। गीतायामपि भगवताश्रीकृष्णेनोक्तम् – कालः कालयतामहम् (गीता 10/36) कालोऽस्मि लोकक्षयकृत् प्रवृद्धः। (गीता 11/32) ग्रहनक्षत्रादि महाप्रलयानन्तरं सर्वप्रथम सूर्य, चन्द्र, नक्षत्रादि आकाशस्थग्रहाणां च सृष्टिः भवति। यथा वेदे –अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् ।। अर्थात् आकाशस्थ तेजोमयपिण्डेषु सूर्यस्य सृष्टिः भवति। गीतायां भगवताकृष्णेनोक्तम् – ज्योतिषां रविरंशुमाननक्षत्राणामहं शशी ।। (गीता 10/20)
पक्षः – प्रत्येकचान्द्रमासस्य द्वौ पक्षौ भवतः भगवान् श्रीकृष्णः गीतायां कथयति –शुक्लकृष्णगतीह्येते जगतः शाश्वते मते । एकया यात्यानावृत्तिर्मन्यया वर्तते पुनः ।। (गीता 8/26) अत्र भगवान् स्पष्टतया शुक्लपक्षस्य प्रशंसा कृतवान् । ऋतुः – मासद्वयस्य एक ऋतुः भवति, गीतायां भगवान् अवोचत् – ऋतूनां कुसुमाकरः (गीता 10) अयनम् – त्रयाणां सौरऋतूनां एकमयनं भवति। दीपिकाकारः लिखति – सौरर्तुत्रितयं प्रदिष्टमयनं। गीतायां भगवानकृष्णः उत्तरायणदक्षिणायनयोः स्पष्टम् उल्लेखयन् वदति –अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयातार्गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। (गीता 8/24) धूमोरात्रिस्तथा कृष्णः षण्मासादक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।। (गीता 8/25) युगः - द्वयोः अयनयोः मेलनेन एकवर्षं भवति, लक्षवर्षाणां एकः युगः भवति यस्यापि वर्णनं भगवान्गीतायां करोति –परित्राणायसाधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। (गीता 4/8) गीतायां भगवान् सृष्टेः उत्पत्तिविषये कथयति – महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा । मद्भावा मानसाजाता येषां लोक इमाः प्रजाः ।। (गीता 10/6) निष्कर्षत्वेन वक्तुं शक्यते यत् ज्योतिषं प्रकाशतत्त्वमस्ति। नेत्रयोः उपरिस्थतेसत्यपि यदि प्रकाशनास्ति तर्हि सर्वत्र अन्धकारः एवं किमपि न दृश्यते। अत एव ज्योतिषं सूर्यस्यापि संज्ञा दीयते। यस्य प्रकाशे अस्माकं नेत्रेषु वस्तुग्रहणक्षमता प्राप्यते।
श्रीमद्भगवद्गीतायां भगवान्श्रीकृष्णः मानवजीवनस्य कल्याणाय तस्योपरि प्रभावकारी – सूर्य, नक्षत्र, काल, योग, अयन, दिवा, रात्रि, पक्ष, ऋतु, वर्षादेः ज्ञानं दत्तवान् येषां ज्ञानेन आत्माभिमुखीकरणेन श्रेयः प्रीतेश्च सहजतया प्राप्तिर्भवति।
Amanda Martines 5 days ago
Exercitation photo booth stumptown tote bag Banksy, elit small batch freegan sed. Craft beer elit seitan exercitation, photo booth et 8-bit kale chips proident chillwave deep v laborum. Aliquip veniam delectus, Marfa eiusmod Pinterest in do umami readymade swag. Selfies iPhone Kickstarter, drinking vinegar jean.
ReplyBaltej Singh 5 days ago
Drinking vinegar stumptown yr pop-up artisan sunt. Deep v cliche lomo biodiesel Neutra selfies. Shorts fixie consequat flexitarian four loko tempor duis single-origin coffee. Banksy, elit small.
ReplyMarie Johnson 5 days ago
Kickstarter seitan retro. Drinking vinegar stumptown yr pop-up artisan sunt. Deep v cliche lomo biodiesel Neutra selfies. Shorts fixie consequat flexitarian four loko tempor duis single-origin coffee. Banksy, elit small.
Reply